श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः
निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ॥ ५ ॥
सत्त्वं रजः तमः इति एवंनामानःगुणाः इति पारिभाषिकः शब्दः, रूपादिवत् द्रव्याश्रिताः गुणाः गुणगुणिनोः अन्यत्वमत्र विवक्षितम्तस्मात् गुणा इव नित्यपरतन्त्राः क्षेत्रज्ञं प्रति अविद्यात्मकत्वात् क्षेत्रज्ञं निबध्नन्तीवतम् आस्पदीकृत्य आत्मानं प्रतिलभन्ते इति निबध्नन्ति इति उच्यतेते प्रकृतिसम्भवाः भगवन्मायासम्भवाः निबध्नन्ति इव हे महाबाहो, महान्तौ समर्थतरौ आजानुप्रलम्बौ बाहू यस्य सः महाबाहुः, हे महाबाहो देहे शरीरे देहिनं देहवन्तम् अव्ययम् , अव्ययत्वं उक्तम् अनादित्वात्’ (भ. गी. १३ । ३१) इत्यादिश्लोकेनननु देही लिप्यते’ (भ. गी. १३ । ३१) इत्युक्तम्तत् कथम् इह निबध्नन्ति इति अन्यथा उच्यते ? परिहृतम् अस्माभिः इवशब्देन निबध्नन्ति इव इति ॥ ५ ॥

सत्त्वादिषु कथं गुणशब्दप्रवृत्तिः ? इत्याशङ्क्य, परतन्त्रत्वात् इत्याह -

गुणा इति ।

रूपादिष्विव गुणशब्दः सत्त्वादिषु द्रव्याश्रितत्वं निमित्तीकृत्य किं न स्यात् ? इत्याशङ्क्य, प्रकृत्यात्मकानां तेषां सर्वाश्रयत्वात् नैवम् इत्याह -

न रूपादिवदिति ।

गुणानां प्रकृतेश्च पृथगुक्तेः अन्यत्वे, कुतः तेषां प्रकृत्यात्मत्वम् ? इत्याशङ्क्य आह -

न च गुणेति ।

अत्यन्तभेदे गवाश्ववत् तद्भावासम्भवात् , इत्यर्थः ।

भेदाभेदे च तद्भावासम्भावत् , विशेषात् कुतः तेषु गुणपरिभाषा ? इत्याशङ्क्य आह -

तस्मादिति ।

क्षेत्रज्ञं प्रति नित्यपारतन्त्र्ये हेतुम् आह -

अविद्येति ।

के गुणाः ? इत्यस्य उत्तरम् उक्तम् । कथं बध्नन्ति ? इत्यस्य उत्तरम् आह -

क्षेत्रज्ञम् इति ।

तदेव उपपादयति -

तम् आस्पदीकृत्येति ।

प्राकृतानां गुणानां प्रकृत्यात्मकत्वम् आह -

ते चेति ।

सम्भवति अस्मादिति सम्भवः । प्रकृतिः सम्भवो येषां, ते तथा इति ।

साङ्ख्यीयां प्रकृतिं प्रधानाख्यां व्यावर्तयति -

भगवदिति ।

इवकारानुबन्धेन नितरां बध्नन्ति - स्वविकारवत्तया उपदर्शयन्ति इति क्रियापदं व्याख्याय, महाबाहुशब्दं व्याचष्टे -

महान्ताविति ।

देहवन्तम् - देहम् आत्मानं मन्यमानं देहस्वामिनम् इत्यर्थः ।

कूटस्थस्य कथं बध्यमानत्वम् ? इत्याशङ्क्य ‘कुर्यान्मेरावणुधियं’ इति न्यायेन मायामाहात्म्यम् इदम् , इत्याह -

अव्ययमिति ।

स्वतो धर्मतो वा व्ययराहित्यम् ? इत्यपेक्षायाम् आह -

अव्ययत्वं चेति ।

‘लिप्यते न स पापेन’ (भ. गी. ५-१०) इत्यनेन विरुद्धम् इदं निबध्नन्ति इति वचनम् , इति शङ्कते -

नन्विति ।

इवकारानुबन्धेन क्रियापदं व्याचक्षाणैः अस्माभिः अस्य चोद्यस्य परिहृतत्वात् नैवम् , इत्याह -

परिहृतमिति

॥ ५ ॥