रजस्तर्हि किंलक्षणम् ? कथं वा पुरुषं निबध्नाति इति आशङ्क्य, आह -
रज इति ।
रज्यते - संसृज्यते अनेन पुरुषः दृश्यैः, इति रागः, असौ आत्मा अस्य, इति रागात्मकं रजो जानीहि, इत्याह -
रञ्जनादिति ।
समुद्भवति अस्मात् , इति समुद्भवः । तृष्णा च आसङ्गश्च तृष्णासङ्गौ, तयोः समुद्भवः, तम् इति विग्रहं गृहीत्वा, कार्यद्वारा रजोविवक्षुः, तृष्णासङ्गयोः अर्थभेदम् आह -
तृष्णेत्यादिना ।
रजसो लक्षणं उक्त्वा निबन्धृत्वप्रकारम् आह -
तद्रज इति ।
कर्मसङ्गं विभजते -
दृष्टेति ।
अकर्तारमेव पुरुषं करोमि इत्यभिमानेन प्रवर्तयति इत्यर्थः
॥ ७ ॥