श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत
ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ॥ ९ ॥
सत्त्वं सुखे सञ्जयति संश्लेषयति, रजः कर्मणि हे भारत सञ्जयति इति अनुवर्ततेज्ञानं सत्त्वकृतं विवेकम् आवृत्य आच्छाद्य तु तमः स्वेन आवरणात्मना प्रमादे सञ्जयति उत प्रमादः नाम प्राप्तकर्तव्याकरणम् ॥ ९ ॥

सुखे साध्ये विषये समुत्कृष्यते सत्त्वम् , इत्याह -

सत्त्वमिति ।

‘सञ्जयति’ इत्यस्य अर्थम् आह -

संश्लेषयति इति ।

कर्मणि साध्ये रजः समुत्कृष्यते, इत्याह -

रज इति ।

प्रमादे प्राधान्यं तमसो दर्शयति -

ज्ञानमिति

॥ ९ ॥