श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
उक्तं कार्यं कदा कुर्वन्ति गुणा इति उच्यते
उक्तं कार्यं कदा कुर्वन्ति गुणा इति उच्यते

इतरेतराविरोधेन वा सत्त्वादयो गुणाः युगपत् उत्कृष्यन्ते ? विरोधेन वा ? क्रमेण वा ? इति, सन्देहात् पृच्छति -

उक्तमिति ।

सत्त्वोत्कर्षार्थिनाम् इतराभिभवार्थं क्रमपक्षम् आश्रित्य उत्तरम् आह -

उच्यत इति ।