श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
रजस्तमश्चाभिभूय सत्त्वं भवति भारत
रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ॥ १० ॥
रजः तमश्च उभावपि अभिभूय सत्त्‌वं भवति उद्भवति वर्धते यदा, तदा लब्धात्मकं सत्त्वं स्वकार्यं ज्ञानसुखादि आरभते हे भारततथा रजोगुणः सत्त्वं तमश्च एव उभावपि अभिभूय वर्धते यदा, तदा कर्म कृष्यादि स्वकार्यम् आरभतेतमआख्यो गुणः सत्त्वं रजश्च उभावपि अभिभूय तथैव वर्धते यदा, तदा ज्ञानावरणादि स्वकार्यम् आरभते ॥ १० ॥

सत्त्वाभिवृद्धिमेव विवृणोति -

तदेति ।

रजस्तमसोः तिरोधानदशायाम् , इति यावत् ।

रजसो वृद्धिप्रकारं, तत्कार्यं च कथयति -

तथेति ।

तमसोऽपि विवृद्धिं, तत्कार्यं च निर्दिशति -

तम इति

॥ १० ॥