उपक्रमपर्यायस्य आरम्भस्य विषयं पृच्छति -
कस्येति ।
काम्यानि निषिद्धानि च लौकिकानि कर्माणि विषयत्वेन निर्दिशति -
कर्मणामिति ।
अनुपशमः, बाह्यान्तःकरणानाम् , इति शेषः । लोभाद्युपलम्भात् रजोवृद्धिः बोद्धव्या, इति भावः
॥ १२ ॥