उद्भूतस्य तमसो लिङ्गम् आह -
अप्रकाश इति ।
सर्वथैव ज्ञानकर्मणोः अभावो विशेषणाभ्याम् उक्तः -
तत्कार्यमिति ।
तच्छब्दो दर्शिताविवेकार्थः ।
प्रमादो व्याख्यातः । मोहो वेदितव्यस्य अन्यथा वेदनम् । तस्यैव मौढ्यान्तम्म् आह -
अविवेक इति ।
अविवेकातिशयादिना प्रवृद्धं तमो ज्ञेयम् , इति भावः
॥ १३ ॥