श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्
रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ॥ १६ ॥
कर्मणः सुकृतस्य सात्त्विकस्य इत्यर्थः, आहुः शिष्टाः सात्त्विकम् एव निर्मलं फलम् इतिरजसस्तु फलं दुःखं राजसस्य कर्मणः इत्यर्थः, कर्माधिकारात् फलम् अपि दुःखम् एव, कारणानुरूप्यात् राजसमेवतथा अज्ञानं तमसः तामसस्य कर्मणः अधर्मस्य पूर्ववत् ॥ १६ ॥

रजश्शब्दस्य राजसे कर्मणि कुतो वृत्तिः ? तत्र आह -

कर्मेति ।

दुःखमेव - दुःखबहुलम् , कथम् इत्थं व्याख्यायते ? तत्र आह -

कारणेति ।

पापमिश्रस्य पुण्यस्य रजोनिमित्तस्य कारणत्वात् तदनुरोधात् फलमिति रजोनिमित्तं यथोक्तं युक्तम् , इत्यर्थः ।

अज्ञानम् अविवेकप्रायं दुःखं तामसाधर्मफलम् , इत्याह -

तथेति

॥ १६ ॥