ये व्याख्याताः सत्त्वादयो गुणाः, तत्परिणामभूतान् अध्यासान् अतिक्रान्तः सन् , कैर्लिङ्गैः ज्ञातो भवति, इति तानि वक्तव्यानि सिद्ध्यर्थं पूर्वम् अनुष्ठेयानि, पश्चात् अयत्नलभ्यानि लिङ्गानि, कानि तानि ? इति पृच्छति -
कैरिति ।
यथेष्टचेष्टाव्यावृत्त्यर्थं प्रश्नान्तरं -
किमाचार इति ।
ज्ञानस्य गुणात्ययोपायस्य उक्तत्वात् उपायप्रकारजिज्ञासया प्रश्नान्तरं -
कथमिति
॥ २१ ॥