श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
गुणातीतस्य लक्षणं गुणातीतत्वोपायं अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाचयत् तावत्कैः लिङ्गैः युक्तो गुणातीतो भवतिइति, तत् शृणु
गुणातीतस्य लक्षणं गुणातीतत्वोपायं अर्जुनेन पृष्टः अस्मिन् श्लोके प्रश्नद्वयार्थं प्रतिवचनं भगवान् उवाचयत् तावत्कैः लिङ्गैः युक्तो गुणातीतो भवतिइति, तत् शृणु

प्रश्नस्वरूपम् अनूद्य, तदुत्तरं दर्शयति -

गुणातीतस्येति ।

पृष्टो भगवान् इति सम्बन्धः ।

किं वृत्तस्य त्रिधा प्रयोगदर्शनात् प्रश्नद्वयार्थम् इत्युपलक्षणं प्रश्नत्रयार्थम् इति द्रष्टव्यम् । उत्तरम् अवतार्य, अनन्तरश्लोकतात्पर्यम् आह -

यत्तावदिति ।