श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
प्रकाशं प्रवृत्तिं मोहमेव पाण्डव
द्वेष्टि सम्प्रवृत्तानि निवृत्तानि काङ्क्षति ॥ २२ ॥
प्रकाशं च सत्त्वकार्यं प्रवृत्तिं च रजःकार्यं मोहमेव च तमःकार्यम् इत्येतानि न द्वेष्टि सम्प्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि — ‘मम तामसः प्रत्ययो जातः, तेन अहं मूढः ; तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् ; कष्टं मम वर्तते यः अयं मत्स्वरूपावस्थानात् भ्रंशः ; तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे च सञ्जयन् बध्नाति’ इति तानि द्वेष्टि असम्यग्दर्शित्वेन । तत् एवं गुणातीतो न द्वेष्टि सम्प्रवृत्तानि । यथा च सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, न तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थः । एतत् न परप्रत्यक्षं लिङ्गम् । किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थमेव एतत् लक्षणम् । न हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति ॥ २२ ॥

तानि सम्यग्दर्शी न द्वेष्टि, इत्युक्तमेव स्पष्टयितुं निषेध्यम् असम्यग्दर्शिनो द्वेषं तेषु प्रकटयति -

ममेत्यादिना ।

सम्यग्दर्शिनः सम्प्रवृत्तेषु प्रकाशादिषु द्वेषाभावम् उपसंहरति -

तदेवमिति ।

न निवृत्तानि इत्यादि व्याचष्टे -

यथा चेति ।

तेषाम् अनात्मीयत्वं सम्यक् पश्यन् आत्मानुकूलप्रतिकूलतारोपणेन न उद्विजते तेभ्यश्च न स्पृहयति, इत्यर्थः ।

स्वानुभवसिद्धं गुणातीतस्य लक्षणम् उक्तम् इत्याह -

एतन्नेति ।

परप्रत्यक्षत्वाभावं प्रपञ्चयति -

न हीति ।

आश्रयो विषयः

॥ २२ ॥