श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
प्रकाशं प्रवृत्तिं मोहमेव पाण्डव
द्वेष्टि सम्प्रवृत्तानि निवृत्तानि काङ्क्षति ॥ २२ ॥
प्रकाशं सत्त्वकार्यं प्रवृत्तिं रजःकार्यं मोहमेव तमःकार्यम् इत्येतानि द्वेष्टि सम्प्रवृत्तानि सम्यग्विषयभावेन उद्भूतानि — ‘मम तामसः प्रत्ययो जातः, तेन अहं मूढः ; तथा राजसी प्रवृत्तिः मम उत्पन्ना दुःखात्मिका, तेन अहं रजसा प्रवर्तितः प्रचलितः स्वरूपात् ; कष्टं मम वर्तते यः अयं मत्स्वरूपावस्थानात् भ्रंशः ; तथा सात्त्विको गुणः प्रकाशात्मा मां विवेकित्वम् आपादयन् सुखे सञ्जयन् बध्नातिइति तानि द्वेष्टि असम्यग्दर्शित्वेनतत् एवं गुणातीतो द्वेष्टि सम्प्रवृत्तानियथा सात्त्विकादिपुरुषः सत्त्वादिकार्याणि आत्मानं प्रति प्रकाश्य निवृत्तानि काङ्क्षति, तथा गुणातीतो निवृत्तानि काङ्क्षति इत्यर्थःएतत् परप्रत्यक्षं लिङ्गम्किं तर्हि ? स्वात्मप्रत्यक्षत्वात् आत्मार्थमेव एतत् लक्षणम् हि स्वात्मविषयं द्वेषमाकाङ्क्षां वा परः पश्यति ॥ २२ ॥

तानि सम्यग्दर्शी न द्वेष्टि, इत्युक्तमेव स्पष्टयितुं निषेध्यम् असम्यग्दर्शिनो द्वेषं तेषु प्रकटयति -

ममेत्यादिना ।

सम्यग्दर्शिनः सम्प्रवृत्तेषु प्रकाशादिषु द्वेषाभावम् उपसंहरति -

तदेवमिति ।

न निवृत्तानि इत्यादि व्याचष्टे -

यथा चेति ।

तेषाम् अनात्मीयत्वं सम्यक् पश्यन् आत्मानुकूलप्रतिकूलतारोपणेन न उद्विजते तेभ्यश्च न स्पृहयति, इत्यर्थः ।

स्वानुभवसिद्धं गुणातीतस्य लक्षणम् उक्तम् इत्याह -

एतन्नेति ।

परप्रत्यक्षत्वाभावं प्रपञ्चयति -

न हीति ।

आश्रयो विषयः

॥ २२ ॥