श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मां योऽव्यभिचारेण भक्तियोगेन सेवते
गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
मां च ईश्वरं नारायणं सर्वभूतहृदयाश्रितं यो यतिः कर्मी वा अव्यभिचारेण न कदाचित् यो व्यभिचरति भक्तियोगेन भजनं भक्तिः सैव योगः तेन भक्तियोगेन सेवते, सः गुणान् समतीत्य एतान् यथोक्तान् ब्रह्मभूयाय, भवनं भूयः, ब्रह्मभूयाय ब्रह्मभवनाय मोक्षाय कल्पते समर्थो भवति इत्यर्थः ॥ २६ ॥

मच्छब्दस्य संसारिविषयत्वं व्यावर्तयति -

ईश्वरमिति ।

तत्रैव नारायणशब्दात् मूर्तिभेदो व्यावर्त्यते ।

तस्य ताटस्थ्यं व्यवच्छिनत्ति -

सर्वेति ।

मुख्यामुख्याधिकारिभेदेने विकल्पः । भक्तियोगस्य यादृच्छिकत्वं व्यवच्छेत्तुम् ‘अव्यभिचारेण’ इत्युक्तम् । तद्व्याचष्टे -

नेति ।

भजनं - परमप्रेमा । स एव युज्यते अनेन इति योगः । सेवते - पराक्चित्ततां विना सदा अनुसन्दधाति, इत्यर्थः । सः भगवदनुग्रहकृतसम्यग्धीसम्पन्नो विद्वान् जीवन्नेव इत्यर्थः

॥ २६ ॥