श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मां योऽव्यभिचारेण भक्तियोगेन सेवते
गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ॥ २६ ॥
अधुना ‘कथं च त्रीन्गुणानतिवर्तते ? ’ (भ. गी. १४ । २१) इत्यस्य प्रश्नस्य प्रतिवचनम् आह —

प्रश्नद्वयम् एवं परिहृत्य, तृतीयं प्रश्नं परिहरति -

अधुनेति ।