श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ममैवांशो जीवलोके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥
ममैव परमात्मनः नारायणस्य, अंशः भागः अवयवः एकदेशः इति अनर्थान्तरं जिवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरन्तनः ; यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा न निवर्तते च तेनैव आत्मना गच्छति, एवमेव ; यथा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाशः आकाशांशः सन् घटादिनिमित्तापाये आकाशं प्राप्य न निवर्तते । अतः उपपन्नम् उक्तम् ‘यद्गत्वा न निवर्तन्ते’ (भ. गी. १५ । ६) इति । ननु निरवयवस्य परमात्मनः कुतः अवयवः एकदेशः अंशः इति ? सावयवत्वे च विनाशप्रसङ्गः अवयवविभागात् । नैष दोषः, अविद्याकृतोपाधिपरिच्छिन्नः एकदेशः अंश इव कल्पितो यतः । दर्शितश्च अयमर्थः क्षेत्राध्याये विस्तरशः । स च जीवो मदंशत्वेन कल्पितः कथं संसरति उत्क्रामति च इति, उच्यते — मनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति ॥ ७ ॥

जीवस्य परांशत्वेऽपि कथं उक्तदोषसमाधिः? इत्याशङ्क्य, प्रतिबिम्बपक्षमादाय दृष्टान्तेन प्रत्याचष्टे-

यथेति ।

अवच्छेदपक्षमाश्रित्य दृष्टान्तान्तरेण उक्तदोषसमाधिं दर्शयति -

यथावेति ।

आक्षेपसमाधिमुपसंहरति -

अत इति ।

परस्य निरवयवत्वात् तदंशत्वं जीवस्यायुक्तमिति शङ्कते -

नन्विति ।

तस्य निरवयवत्वं साधयति -

सावयवत्वे चेति ।

वस्तुतो निरंशस्यापि परस्य कल्पनया जीवः अंशः भविष्यति इति परिहरति -

नैष दोष इति ।

वस्तुतस्तु जीवस्य न अंशत्वं परमात्मना तावन्मात्रतायाः दर्शितत्वात् इत्याह -

दर्शितश्चेति ।

यदि परस्य अंशत्वेन कल्पितो जीवः वस्तुतः तदात्मैव, न तर्हि तस्य संसारित्वं उत्क्रान्तिर्वेति शङ्कते -

कथमिति ।

जीवस्य संसरणम् उत्क्रमणञ्च उपपादयितुं  उपक्रमते -

उच्यत इति

॥ ७ ॥