श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ममैवांशो जीवलोके जीवभूतः सनातनः
मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ॥ ७ ॥
ममैव परमात्मनः नारायणस्य, अंशः भागः अवयवः एकदेशः इति अनर्थान्तरं जिवलोके जीवानां लोके संसारे जीवभूतः कर्ता भोक्ता इति प्रसिद्धः सनातनः चिरन्तनः ; यथा जलसूर्यकः सूर्यांशः जलनिमित्तापाये सूर्यमेव गत्वा निवर्तते तेनैव आत्मना गच्छति, एवमेव ; यथा घटाद्युपाधिपरिच्छिन्नो घटाद्याकाशः आकाशांशः सन् घटादिनिमित्तापाये आकाशं प्राप्य निवर्ततेअतः उपपन्नम् उक्तम् यद्गत्वा निवर्तन्ते’ (भ. गी. १५ । ६) इतिननु निरवयवस्य परमात्मनः कुतः अवयवः एकदेशः अंशः इति ? सावयवत्वे विनाशप्रसङ्गः अवयवविभागात्नैष दोषः, अविद्याकृतोपाधिपरिच्छिन्नः एकदेशः अंश इव कल्पितो यतःदर्शितश्च अयमर्थः क्षेत्राध्याये विस्तरशः जीवो मदंशत्वेन कल्पितः कथं संसरति उत्क्रामति इति, उच्यतेमनःषष्ठानि इन्द्रियाणि श्रोत्रादीनि प्रकृतिस्थानि स्वस्थाने कर्णशष्कुल्यादौ प्रकृतौ स्थितानि कर्षति आकर्षति ॥ ७ ॥

जीवस्य परांशत्वेऽपि कथं उक्तदोषसमाधिः? इत्याशङ्क्य, प्रतिबिम्बपक्षमादाय दृष्टान्तेन प्रत्याचष्टे-

यथेति ।

अवच्छेदपक्षमाश्रित्य दृष्टान्तान्तरेण उक्तदोषसमाधिं दर्शयति -

यथावेति ।

आक्षेपसमाधिमुपसंहरति -

अत इति ।

परस्य निरवयवत्वात् तदंशत्वं जीवस्यायुक्तमिति शङ्कते -

नन्विति ।

तस्य निरवयवत्वं साधयति -

सावयवत्वे चेति ।

वस्तुतो निरंशस्यापि परस्य कल्पनया जीवः अंशः भविष्यति इति परिहरति -

नैष दोष इति ।

वस्तुतस्तु जीवस्य न अंशत्वं परमात्मना तावन्मात्रतायाः दर्शितत्वात् इत्याह -

दर्शितश्चेति ।

यदि परस्य अंशत्वेन कल्पितो जीवः वस्तुतः तदात्मैव, न तर्हि तस्य संसारित्वं उत्क्रान्तिर्वेति शङ्कते -

कथमिति ।

जीवस्य संसरणम् उत्क्रमणञ्च उपपादयितुं  उपक्रमते -

उच्यत इति

॥ ७ ॥