यदादित्यगतं तेजो जगद्भासयतेऽखिलम् ।
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
ननु स्थावरेषु जङ्गमेषु च तत् समानं चैतन्यात्मकं ज्योतिः । तत्र कथम् इदं विशेषणम् — ‘यदादित्यगतम्’ इत्यादि । नैष दोषः, सत्त्वाधिक्यात् आविस्तरत्वोपपत्तेः । आदित्यादिषु हि सत्त्वं अत्यन्तप्रकाशम् अत्यन्तभास्वरम् ; अतः तत्रैव आविस्तरं ज्योतिः इति तत् विशिष्यते, न तु तत्रैव तत् अधिकमिति । यथा हि श्लोके तुल्येऽपि मुखसंस्थाने न काष्ठकुड्यादौ मुखम् आविर्भवति, आदर्शादौ तु स्वच्छे स्वच्छतरे च तारतम्येन आविर्भवति ; तद्वत् ॥ १२ ॥