श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यदादित्यगतं तेजो जगद्भासयतेऽखिलम्
यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ॥ १२ ॥
यत् आदित्यगतम् आदित्याश्रयम्किं तत् ? तेजः दीप्तिः प्रकाशः जगत् भासयते प्रकाशयति अखिलं समस्तम् ; यत् चन्द्रमसि शशभृति तेजः अवभासकं वर्तते, यच्च अग्नौ हुतवहे, तत् तेजः विद्धि विजानीहि मामकं मदीयं मम विष्णोः तत् ज्योतिःअथवा, आदित्यगतं तेजः चैतन्यात्मकं ज्योतिः, यच्चन्द्रमसि, यच्च अग्नौ वर्तते तत् तेजः विद्धि मामकं मदीयं मम विष्णोः तत् ज्योतिः

जीवात्मत्वे न चिद्रूपत्वं उक्त्वा तदीयचैतन्येन आदित्यादीनां अवभासकत्वाच्च ब्रह्मणः चिद्रूपत्वं इत्याह -

यदादित्येति ।

चिद्रूपस्यैव ब्रह्मणः सर्वात्मकत्वप्रतिपादकत्वेन श्लोकं व्याचष्टे -

यदित्यादिना ।

आदित्यादौ तत्र तत्र स्थितं ब्रह्मचैतन्यज्योतिः सर्वावभासकं इत्यर्थः ।

ब्रह्मण सर्वज्ञत्वेन चिद्रूपत्वं अत्र विवक्षितम् , इति व्याख्यान्तरं आह -

अथवेति ।