श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सर्वस्य चाहं हृदि संनिविष्टो
मत्तः स्मृतिर्ज्ञानमपोहनं
वेदैश्च सर्वैरहमेव वेद्यो
वेदान्तकृद्वेदविदेव चाहम् ॥ १५ ॥
सर्वस्य प्राणिजातस्य अहम् आत्मा सन् हृदि बुद्धौ संनिविष्टःअतः मत्तः आत्मनः सर्वप्राणिनां स्मृतिः ज्ञानं तदपोहनं अपगमनं ; येषां यथा पुण्यकर्मणां पुण्यकर्मानुरोधेन ज्ञानस्मृती भवतः, तथा पापकर्मणां पापकर्मानुरूपेण स्मृतिज्ञानयोः अपोहनं अपायनम् अपगमनं वेदैश्च सर्वैः अहमेव परमात्मा वेद्यः वेदितव्यःवेदान्तकृत् वेदान्तार्थसम्प्रदायकृत् इत्यर्थः, वेदवित् वेदार्थवित् एव अहम् ॥ १५ ॥

प्राणिनां स्मृतिज्ञानयोः तदुपायस्य च भगवदधीनत्वे भगवतो वैषम्यं स्यात् इत्याशङ्क्याह -

येषामिति ।

स्मृतिः जन्मान्तरादौ अनुभूतस्य परामर्शः । देशकालस्वभावविप्रकृष्टस्यापि ज्ञानम् अनुभवः । धर्माधर्माभ्यां विचित्रं कुर्वतः न ईश्वरस्य वैषम्यम् इति भावः ।

वेदवेद्यं परं ब्रह्म भगवतः अन्यदिति शङ्कां वारयति -

वेदैरिति ।

वेदान्तानां पौरुषेयत्वं परिहरति -

वेदेति ।

तदर्थसम्प्रदायप्रवर्तकत्वार्थं तदर्थयाथातथ्यज्ञानवत्वमाह -

वेदार्थेति

॥ १५ ॥