श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
किञ्च
किञ्च

इतश्च सर्वात्मत्वेन सर्वव्यवहारास्पदत्वम् ईश्वरस्य इत्याह -

किञ्चेति ।

प्राणिजातं ब्रह्मादिपुत्तिकान्तम् । आत्मतया बुद्धौ संनिविष्टत्वं - तद्गुणदोषाणाम् अशेषेण - द्रष्टृत्वम् । अतः बुद्धिमध्यस्थस्य गुणदोषद्रष्टृत्वात् इति यावत् । मत्तः - सर्वकर्माध्यक्षात् जगद्यन्त्रसूत्रधारात् इत्यर्थः ।