जडवर्गस्य अन्यत्वकृतं स्वातन्त्र्यं निरस्यति -
स एवेति ।
लोकत्रयं इति उपलक्षणम् , सर्वं जगदपि विवक्षितम् । चैतन्यमेव बलं तत्र - शक्तिः - माया तयेति यावत् ।
जगद्धारणे परस्य व्यापारान्तरं वारयति -
स्वरूपेति ।
न च अस्य अन्यो धारयिता, स्वतः अचलत्वात् इत्याह -
अव्यय इति ।
“संयुक्तमेतत् क्षरमक्षरं च व्यक्ताव्यक्तं भरते विश्वमीशः“ इति श्रुत्यर्थं गृहीत्वा आह -
ईश्वर इति
॥ १७ ॥