श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः
आभ्यां क्षराक्षराभ्यां अन्यः विलक्षणः क्षराक्षरोपाधिद्वयदोषेण अस्पृष्टः नित्यशुद्धबुद्धमुक्तस्वभावः

कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति -

आभ्यामिति ।

वैलक्षण्यफलमाह -

क्षरेति ।

उपाधिद्वयकृतगुणदोषास्पर्शे फलितमाह -

नित्येति ।

आभ्यां क्षराक्षराभ्यामिति यावत् । उत्तमः, अन्यः इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्ट्यर्थम् ।