कार्यकारणाख्यौ राशी दर्शयित्वा राश्यन्तरं दर्शयति -
आभ्यामिति ।
वैलक्षण्यफलमाह -
क्षरेति ।
उपाधिद्वयकृतगुणदोषास्पर्शे फलितमाह -
नित्येति ।
आभ्यां क्षराक्षराभ्यामिति यावत् । उत्तमः, अन्यः इति पदद्वयं वस्तुतः सर्वथैव क्षराक्षरात्मत्वाभावदृष्ट्यर्थम् ।