मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
पञ्चदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
यस्मात्क्षरमतीतोऽहमक्षरादपि
चोत्तमः
।
अतोऽस्मि
लोके
वेदे
च
प्रथितः
पुरुषोत्तमः
॥ १८ ॥
यस्मात् क्षरम् अतीतः अहं संसारमायावृक्षम् अश्वत्थाख्यम् अतिक्रान्तः अहम् अक्षरादपि संसारमायारूपवृक्षबीजभूतादपि च उत्तमः उत्कृष्टतमः ऊर्ध्वतमो वा, अतः ताभ्यां क्षराक्षराभ्याम् उत्तमत्वात् अस्मि लोके वेदे च प्रथितः प्रख्यातः । पुरुषोत्तमः इत्येवं मां भक्तजनाः विदुः । कवयः काव्यादिषु च इदं नाम निबध्नन्ति । पुरुषोत्तम इत्यनेनाभिधानेनाभिगृणन्ति ॥ १८ ॥
अत इति
;
यस्मादित्यस्य अपेक्षितं निक्षिपति -
अत इति ।
उत्तमः पुरुषः इति वाक्यशेषः
॥ १८ ॥