श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यो मामेवमसंमूढो जानाति पुरुषोत्तमम्
सर्वविद्भजति मां सर्वभावेन भारत ॥ १९ ॥
अथ इदानीं यथानिरुक्तम् आत्मानं यो वेद, तस्य इदं फलम् उच्यते —

आत्मनः अप्रपञ्चत्वं ज्ञानफलोक्त्या स्तौति -

अथेति ।

यथोक्तविशेषणं सर्वात्मत्वादिविशेषणोपेतमिति यावत् । क्षराक्षरातीतत्वं यथोक्तप्रकारः । संमोहवर्जितः - संमोहेन देहादिषु आत्मात्मीयत्वबुद्ध्या रहितः इत्यर्थः ।