आत्मनः अप्रपञ्चत्वं ज्ञानफलोक्त्या स्तौति -
अथेति ।
यथोक्तविशेषणं सर्वात्मत्वादिविशेषणोपेतमिति यावत् । क्षराक्षरातीतत्वं यथोक्तप्रकारः । संमोहवर्जितः - संमोहेन देहादिषु आत्मात्मीयत्वबुद्ध्या रहितः इत्यर्थः ।