श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥
अभयम् अभीरुता । सत्त्वसंशुद्धिः सत्त्वस्य अन्तःकरणस्य संशुद्धिः संव्यवहारेषु परवञ्चनामायानृतादिपरिवर्जनं शुद्धसत्त्वभावेन व्यवहारः इत्यर्थः । ज्ञानयोगव्यवस्थितिः ज्ञानं शास्त्रतः आचार्यतश्च आत्मादिपदार्थानाम् अवगमः, अवगतानाम् इन्द्रियाद्युपसंहारेण एकाग्रतया स्वात्मसंवेद्यतापादनं योगः, तयोः ज्ञानयोगयोः व्यवस्थितिः व्यवस्थानं तन्निष्ठता । एषा प्रधाना दैवी सात्त्विकी सम्पत् । यत्र येषाम् अधिकृतानां या प्रकृतिः सम्भवति, सात्त्विकी सा उच्यते । दानं यथाशक्ति संविभागः अन्नादीनाम् । दमश्च बाह्यकरणानाम् उपशमः ; अन्तःकरणस्य उपशमं शान्तिं वक्ष्यति । यज्ञश्च श्रौतः अग्निहोत्रादिः । स्मार्तश्च देवयज्ञादिः, स्वाध्यायः ऋग्वेदाद्यध्ययनम् अदृष्टार्थम् । तपः वक्ष्यमाणं शारीरादि । आर्जवम् ऋजुत्वं सर्वदा ॥ १ ॥

अतीते च अध्याये “कर्मानुबन्धीनि अधश्च मूलानि अनुसन्ततानि" इत्यत्र कर्मव्यङ्ग्याः वासनाः संसारस्य अवान्तरमूलत्वेन उक्ताः । ताः मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ताः विस्तितीर्षुः भगवान् उक्तवान् इत्याह -

भगवानिति ।

अभीरुता - शास्त्रोपदिष्टे अर्थे सन्देहं हित्वा अनुष्ठाननिष्ठत्वम् । परवञ्चना - परस्य व्याजेन वशीकरणम् । माया - हृदये अन्यथा कृत्वा बहिः अन्यथा व्यवहरणम् । अनृतं - अयथादृष्टकथनम् । आदिपदेन विप्रलम्भादिग्रहः उक्तं अर्थं सङ्क्षिप्य आह -

शुद्धेति ।

एषा इति अभयाद्या ज्ञानादिस्थित्यन्ता त्रिधा उक्ता इति यावत् ।

तामेव सात्त्विकीं प्रकृतिं प्रकटयति -

यत्रेति ।

ज्ञाने कर्मणि वा अधिकृतानां अभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पत् इत्यर्थः ।

महाभाग्यानां अत्युत्तमा दैवी सम्पत् उक्ता । सम्प्रति सर्वेषां यथासम्भवं सम्पदं व्यपदिशति -

दानमिति ।

बाह्यकरणविशेषे कारणम् आह -

अन्तःकरणस्येति ।

देवयज्ञादिः इति आदिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्च इति त्रयम् उक्तम् । बह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्

॥ १ ॥