श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १ ॥
दैवी आसुरी राक्षसी इति प्राणिनां प्रकृतयः नवमे अध्याये सूचिताः । तासां विस्तरेण प्रदर्शनाय ‘अभयं सत्त्वसंशुद्धिः’ इत्यादिः अध्यायः आरभ्यते । तत्र संसारमोक्षाय दैवी प्रकृतिः, निबन्धाय आसुरी राक्षसी च इति दैव्याः आदानाय प्रदर्शनं क्रियते, इतरयोः परिवर्जनाय च ॥

व्यवहितेन सम्बन्धं वदन् अध्यायान्तरम् अवतारयति-

दैवीति ।

दैवी सूचिता, “राक्षसीं आसुरीं चैव प्रकृतिं मोहिनीम्" इत्यादौ इति शेषः ।

प्रकृतीनां विस्तरेण दर्शनं कुत्र उपयोगि इति आशङ्क्य, विभज्य उपयोगं आह -

संसारेति ।