अतीते च अध्याये “कर्मानुबन्धीनि अधश्च मूलानि अनुसन्ततानि" इत्यत्र कर्मव्यङ्ग्याः वासनाः संसारस्य अवान्तरमूलत्वेन उक्ताः । ताः मनुष्यदेहे प्राग्भवीयकर्मानुसारेण व्यज्यमानाः सात्त्विकादिभेदेन दैव्यादिप्रकृतित्रयत्वेन विभक्ताः विस्तितीर्षुः भगवान् उक्तवान् इत्याह -
भगवानिति ।
अभीरुता - शास्त्रोपदिष्टे अर्थे सन्देहं हित्वा अनुष्ठाननिष्ठत्वम् । परवञ्चना - परस्य व्याजेन वशीकरणम् । माया - हृदये अन्यथा कृत्वा बहिः अन्यथा व्यवहरणम् । अनृतं - अयथादृष्टकथनम् । आदिपदेन विप्रलम्भादिग्रहः उक्तं अर्थं सङ्क्षिप्य आह -
शुद्धेति ।
एषा इति अभयाद्या ज्ञानादिस्थित्यन्ता त्रिधा उक्ता इति यावत् ।
तामेव सात्त्विकीं प्रकृतिं प्रकटयति -
यत्रेति ।
ज्ञाने कर्मणि वा अधिकृतानां अभीरुताद्या या प्रकृतिः सा तेषां तत्र सात्त्विकी सम्पत् इत्यर्थः ।
महाभाग्यानां अत्युत्तमा दैवी सम्पत् उक्ता । सम्प्रति सर्वेषां यथासम्भवं सम्पदं व्यपदिशति -
दानमिति ।
बाह्यकरणविशेषे कारणम् आह -
अन्तःकरणस्येति ।
देवयज्ञादिः इति आदिशब्देन पितृयज्ञो भूतयज्ञो मनुष्ययज्ञश्च इति त्रयम् उक्तम् । बह्मयज्ञस्य स्वाध्यायेन पृथक्करणात्
॥ १ ॥