श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ ९ ॥
एतां दृष्टिम् अवष्टभ्य आश्रित्य नष्टात्मानः नष्टस्वभावाः विभ्रष्टपरलोकसाधनाः अल्पबुद्धयः विषयविषया अल्पैव बुद्धिः येषां ते अल्पबुद्धयः प्रभवन्ति उद्भवन्ति उग्रकर्माणः क्रूरकर्माणः हिंसात्मकाःक्षयाय जगतः प्रभवन्ति इति सम्बन्धःजगतः अहिताः, शत्रवः इत्यर्थः ॥ ९ ॥

यथा उक्ता दृष्टिः ब्रह्मदृष्टिवत् इष्टैव इति आशङ्क्य आह -

एतामिति ।

प्राक् उपदिष्टां एतां लोकायतिकदृष्टिं अवलम्ब्य इति यावत् ।

नष्टस्वभावत्वं एव स्पष्टयति -

विभ्रष्टेति ।

विषयबुद्धेः अल्पत्वं दृष्टमात्रोद्देशेन प्रवृत्तत्वम् । जगतः प्राणिजातस्य इति यावत्

॥ ९ ॥