श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
तानहं द्विषतः क्रूरान्संसारेषु नराधमान्
क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ॥ १९ ॥
तान् अहं सन्मार्गप्रतिपक्षभूतान् साधुद्वेषिणः द्विषतश्च मां क्रूरान् संसारेषु एव अनेकनरकसंसरणमार्गेषु नराधमान् अधर्मदोषवत्त्वात् क्षिपामि प्रक्षिपामि अजस्रं सन्ततम् अशुभान् अशुभकर्मकारिणः आसुरीष्वेव क्रूरकर्मप्रायासु व्याघ्रसिंहादियोनिषुक्षिपामिइत्यनेन सम्बन्धः ॥ १९ ॥

तेषां उक्तविशेषणवतां आसुराणां किं स्यात् इति तत् आह -

तानिति ।

भगवतः नैर्घृण्यप्रसङ्गं प्रत्यादिशति -

अधर्मेति

॥ १९ ॥