श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आसुरीं योनिमापन्ना
मूढा जन्मनि जन्मनि
मामप्राप्यैव कौन्तेय
ततो यान्त्यधमां गतिम् ॥ २० ॥
आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि प्रतिजन्म तमोबहुलास्वेव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य एव हे कौन्तेय, ततः तस्मादपि यान्ति अधमां गतिं निकृष्टतमां गतिम् । ‘माम् अप्राप्यैवइति मत्प्राप्तौ काचिदपि आशङ्का अस्ति, अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्यर्थः ॥ २० ॥

ननु तेषामपि क्रमेण बहूनां जन्मनां अन्ते श्रेयः भविष्यति ? न इति आह -

आसुरीमिति ।

तेषां ईश्वरप्राप्तिशङ्काभावे कथं तन्निषेधः स्यात् ? इति आशङ्क्य आह -

मामित्यादिना ।

यस्मात् आसुरी सम्पत् अनर्थपरम्परया सर्वपुरुषार्थपरिपन्थिनी, तस्मात् यावत् पुरुषः स्वतन्त्रः न काञ्चित् पारवश्यकरीं योनिम् आपन्नः, तावदेव तेन असौ परिहरणीया इति समुदायार्थः

॥ २० ॥