त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः ।
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥
त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आत्मनः, यत् द्वारं प्रविशन्नेव नश्यति आत्मा ; कस्मैचित् पुरुषार्थाय योग्यो न भवति इत्येतत् , अतः उच्यते ‘द्वारं नाशनमात्मनः’ इति । किं तत् ? कामः क्रोधः तथा लोभः । तस्मात् एतत् त्रयं त्यजेत् । यतः एतत् द्वारं नाशनम् आत्मनः तस्मात् कामादित्रयमेतत् त्यजेत् ॥ २१ ॥