श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः
आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ॥ २२ ॥
एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः, एतैः त्रिभिः विमुक्तः नरः आचरति अनुतिष्ठतिकिम् ? आत्मनः श्रेयःयत्प्रतिबद्धः पूर्वं आचचार, तदपगमात् आचरतिततः तदाचरणात् याति परां गतिं मोक्षमपि इति ॥ २२ ॥

न केवलं श्रेयः समाचरन् आसुरीं च सम्पदं वर्जयन् मोक्षमेव सम्यग्धीद्वारा लभते किन्तु लौकिकमपि सुखं इतिअपेः अर्थः

॥ २२ ॥