श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः
कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ॥ २१ ॥
सर्वस्या आसुर्याः सम्पदः सङ्क्षेपः अयम् उच्यते, यस्मिन् त्रिविधे सर्वः आसुरीसम्पद्भेदः अनन्तोऽपि अन्तर्भवति । यत्परिहारेण परिहृतश्च भवति, यत् मूलं सर्वस्य अनर्थस्य, तत् एतत् उच्यते —

कथं आसुरी सम्पत् अनन्तभेदवती पुरुषायुषेणापि परिहर्तुं शक्येत इति आशङ्क्य आह -

सर्वस्या इति ।

सङ्क्षेपोक्तिफलं आह -

यस्मिन्निति ।

कामादौ त्रिविधे सर्वस्य आसुरसम्पद्भेदस्य अन्तर्भावेऽपि, कथं असौ परिह्रियते ? तत्र आह -

यत्परिहारेणेति ।

कामादिपरिहारेण आसुरीसम्पद्भेदपरिहारेऽपि कथं सर्वानर्थपरिवर्जनं इति आशङ्क्य आह -

यन्मूलमिति ।