श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवानुवाच —
त्रिविधा भवति श्रद्धा
देहिनां सा स्वभावजा
सात्त्विकी राजसी चैव
तामसी चेति तां शृणु ॥ २ ॥
त्रिविधा त्रिप्रकारा भवति श्रद्धा, यस्यां निष्ठायां त्वं पृच्छसि, देहिनां शरीरिणां सा स्वभावजा ; जन्मान्तरकृतः धर्मादिसंस्कारः मरणकाले अभिव्यक्तः स्वभावः उच्यते, ततो जाता स्वभावजासात्त्विकी सत्त्वनिर्वृत्ता देवपूजादिविषया ; राजसी रजोनिर्वृत्ता यक्षरक्षःपूजादिविषया ; तामसी तमोनिर्वृत्ता प्रेतपिशाचादिपूजाविषया ; एवं त्रिविधां ताम् उच्यमानां श्रद्धां शृणु अवधारय ॥ २ ॥

किमिति श्रद्धात्रैविध्यं प्रश्नानुपयुक्तम् उच्यते, तत्राह -

यस्यामिति ।

श्राद्धपूर्विकायां क्रियायाम् इति यावत् ।

श्रद्धात्रैविध्ये हेतुम् आह -

सा स्वभावजेति ।

स्वभावशब्दार्थं प्रकृतोपयोगितया कथयति -

जन्मान्तरेति ।

कथं त्रिविधा ? इति अपेक्षायाम् आह -

सात्त्विकीत्यादिना ।

कथम् उक्ता श्रद्धा स्वभावजा ? इति तत्र आह -

तामिति

॥ २ ॥