श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सत्त्वानुरूपा सर्वस्य
श्रद्धा भवति भारत
श्रद्धामयोऽयं पुरुषो
यो यच्छ्रद्धः एव सः ॥ ३ ॥
सत्त्वानुरूपा विशिष्टसंस्कारोपेतान्तःकरणानुरूपा सर्वस्य प्राणिजातस्य श्रद्धा भवति भारतयदि एवं ततः किं स्यादिति, उच्यतेश्रद्धामयः अयं श्रद्धाप्रायः पुरुषः संसारी जीवःकथम् ? यः यच्छ्रद्धः या श्रद्धा यस्य जीवस्य सः यच्छ्रद्धः एव तच्छ्रद्धानुरूप एव सः जीवः ॥ ३ ॥

प्राचीनकर्मोद्बोधिता त्रिविधा वासना स्वभावशब्दिता त्रिविधायाः श्रद्धायाः निमित्तम् इत्युक्तम् । इदानीम् उपादानं तस्याः दर्शयति -

सत्त्वमिति ।

विशिष्टचित्तोपादाना श्रद्धा तत्त्रैविध्ये त्रिविधा इति पूर्वार्धस्य अर्थः ।

कथं निष्ठायाः सात्त्विकादिप्रश्नद्वारा श्रद्धायाः त्रैविध्यनिरूपणम् उपयुक्तम् इति मन्वानः शङ्कते -

यद्येवमिति ।

श्रद्धेयं विषयम् अभिध्यायन् तया तत्रैव वर्तते इति मन्वानः परिहरति -

उच्यते इति ।

श्रद्धामयत्वं प्रश्नपूर्वकं कथयति -

कथमिति ।

श्रद्धा खलु अधिकृते पुरुषे प्राचुर्येण प्रकृता इति तस्य श्रद्धामयत्वसिद्धिः इत्यर्थः

॥ ३ ॥