श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठा अनुमेया इत्याह
ततश्च कार्येण लिङ्गेन देवादिपूजया सत्त्वादिनिष्ठा अनुमेया इत्याह

तथापि कथं सत्त्वादिनिष्ठा यथोक्तस्य पुरुषस्य ज्ञातुं शक्या इति आशङ्क्य आह -

ततश्चेति ।

अधिकृतस्य पुरुषस्य श्रद्धाप्रधानत्वात् इति यावत् । देवाः - वस्वादयः, यक्षाः - कुबेरादयः, रक्षांसि नैर्ऋतादयः । स्वधर्मात् प्रच्युताः विप्रादयः देहपातात् ऊर्ध्वं वायुदेहम् आपन्नाः प्रेताः । एभ्यश्च यथायथम् आराध्यदेवादयः सात्त्विकराजसतामसान् प्रकामान् प्रयच्छन्तीति सामर्थ्यात् अवगन्तव्यम्

॥ ४ ॥