श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गेतत्र कश्चिदेव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठो भवति, बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाश्चैव प्राणिनो भवन्तिकथम् ? —
एवं कार्यतो निर्णीताः सत्त्वादिनिष्ठाः शास्त्रविध्युत्सर्गेतत्र कश्चिदेव सहस्रेषु देवपूजादिपरः सत्त्वनिष्ठो भवति, बाहुल्येन तु रजोनिष्ठाः तमोनिष्ठाश्चैव प्राणिनो भवन्तिकथम् ? —

ननु सत्त्वादिनिष्ठाः शास्त्रेण ज्ञातुं शक्यन्ते, कुतः, कार्यलिङ्गकानुमानेन इति, तत्र आह -

एवमिति ।

सत्त्वादिनिष्ठानां जन्तूताम् अवान्तरविशेषं प्रचुरत्वाप्रचुरत्वरूपं दर्शयति -

तत्रेत्यादिना ।

राजसानां तामसानां च प्राचुर्यं प्रश्नद्वारा विवृणोति -

कथमित्यादिना ।

कामश्च काम्यमानविषयः । रागश्च तद्विषयभोगाभिलाषः । तत्कृतं - तत्प्रयुक्तं तन्निमित्तमिति यावत्

॥ ५ ॥