सात्त्विकप्रीतिविषयम् आहारविशेषम् उदाहरति -
आयुरिति ।
आयुः - जीवनं, सत्त्वं - चित्तस्थैर्यम् , वीर्यं वा, बलं - कार्यकरणसामर्थ्यं, आरोग्यं - नीरोगता, सुखं - अन्तः आह्लादः, प्रीतिः - परेषामपि सम्पन्नानां दर्शनात् परमः हर्षः, तासां विवर्धनाः, विवर्धयन्तीति व्युत्पत्तेः । रसोपेताः - रसयितव्याः सरसाः । देहे चिरकालस्थायित्वं - चिरशरीरोपकारहेतुत्वमु
॥ ८ ॥