राजसप्रीतिविषयम् आहारविशेषं दर्शयति -
कट्विति ।
कटुः - तिक्तः, कटुकस्य तीक्ष्णशब्देन उक्तत्वात् ।
रूक्षः - न स्नेहः, विदाही - सन्तापकः । अतिशब्दस्य सर्वत्र योजनमेव अभिनयति -
अतिकटुरिति ।
दुःखं - तात्कालिकी पीडा, इष्टवियोगजं दुःखं - शोकः, आमयः - रोगः
॥ ९ ॥