यातयामं गतरसं पूति पर्युषितं च यत् ।
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ॥ १० ॥
यातयामं मन्दपक्वम् , निर्वीर्यस्य गतरसशब्देन उक्तत्वात् । गतरसं रसवियुक्तम् , पूति दुर्गन्धि, पर्युषितं च पक्वं सत् रात्र्यन्तरितं च यत् , उच्छिष्टमपि भुक्तशिष्टम् उच्छिष्टम् , अमेध्यम् अयज्ञार्हम् , भोजनम् ईदृशं तामसप्रियम् ॥ १० ॥