श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः
आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ ९ ॥
कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः इत्यत्र अतिशब्दः कट्वादिषु सर्वत्र योज्यः, अतिकटुः अतितीक्ष्णः इत्येवम्कटुश्च अम्लश्च लवणश्च अत्युष्णश्च तीक्ष्णश्च रूक्षश्च विदाही ते आहाराः राजसस्य इष्टाः, दुःखशोकामयप्रदाः दुःखं शोकं आमयं प्रयच्छन्तीति दुःखशोकामयप्रदाः ॥ ९ ॥

राजसप्रीतिविषयम् आहारविशेषं दर्शयति -

कट्विति ।

कटुः - तिक्तः, कटुकस्य तीक्ष्णशब्देन उक्तत्वात् ।

रूक्षः - न स्नेहः, विदाही - सन्तापकः । अतिशब्दस्य सर्वत्र योजनमेव अभिनयति -

अतिकटुरिति ।

दुःखं - तात्कालिकी पीडा, इष्टवियोगजं दुःखं - शोकः, आमयः - रोगः

॥ ९ ॥