श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः
रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ॥ ८ ॥
आयुश्च सत्त्वं बलं आरोग्यं सुखं प्रीतिश्च आयुःसत्त्वबलारोग्यसुखप्रीतयः तासां विवर्धनाः आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः, ते रस्याः रसोपेताः, स्निग्धाः स्नेहवन्तः, स्थिराः चिरकालस्थायिनः देहे, हृद्याः हृदयप्रियाः आहाराः सात्त्विकप्रियाः सात्त्विकस्य इष्टाः ॥ ८ ॥

सात्त्विकप्रीतिविषयम् आहारविशेषम् उदाहरति -

आयुरिति ।

आयुः - जीवनं, सत्त्वं - चित्तस्थैर्यम् , वीर्यं वा, बलं - कार्यकरणसामर्थ्यं, आरोग्यं - नीरोगता, सुखं - अन्तः आह्लादः, प्रीतिः - परेषामपि सम्पन्नानां दर्शनात् परमः हर्षः, तासां विवर्धनाः, विवर्धयन्तीति व्युत्पत्तेः । रसोपेताः - रसयितव्याः सरसाः । देहे चिरकालस्थायित्वं - चिरशरीरोपकारहेतुत्वमु

॥ ८ ॥