मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
सप्तदशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
विधिहीनमसृष्टान्नं
मन्त्रहीनमदक्षिणम्
।
श्रद्धाविरहितं
यज्ञं
तामसं
परिचक्षते
॥ १३ ॥
विधि
हीनं
यथाचोदितविपरीतम्
,
असृष्टान्नं
ब्राह्मणेभ्यो
न
सृष्टं
न
दत्तम्
अन्नं
यस्मिन्
यज्ञे
सः
असृष्टान्नः
तम्
असृष्टान्नम्
,
मन्त्रहीनं
मन्त्रतः
स्वरतो
वर्णतो
वा
वियुक्तं
मन्त्रहीनम्
,
अदक्षिणम्
उक्तदक्षिणारहितम्
,
श्रद्धाविरहितं
यज्ञं
तामसं
परिचक्षते
तमोनिर्वृत्तं
कथयन्ति
॥ १३ ॥
विधीति
;
तामसं यज्ञं हानार्थमेव उदाहरति -
विधीति
॥ १३ ॥