राजसं यज्ञं हानार्थं दर्शयति -
अभिसन्धायेति ।
स्वर्गादि उद्दिश्य, धार्मिकत्वख्यापानार्थं च यत् यजनं क्रियते, तं यज्ञं रजसा निर्वृत्तं त्याज्यम् अवगच्छ इत्यर्थः
॥ १२ ॥