श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्
ब्रह्मचर्यमहिंसा शारीरं तप उच्यते ॥ १४ ॥
देवाश्च द्विजाश्च गुरवश्च प्राज्ञाश्च देवद्विजगुरुप्राज्ञाः तेषां पूजनं देवद्विजगुरुप्राज्ञपूजनम् , शौचम् , आर्जवम् ऋजुत्वम् , ब्रह्मचर्यम् अहिंसा शरीरनिर्वर्त्यं शारीरं शरीरप्रधानैः सर्वैरेव कार्यकरणैः कर्त्रादिभिः साध्यं शारीरं तपः उच्यतेपञ्चैते तस्य हेतवः’ (भ. गी. १८ । १५) इति हि वक्ष्यति ॥ १४ ॥

तत्र शारीरं तपः निर्दिशति -

देवेति ।

देवाः - ब्रह्मविष्णुशिवादयः, द्विजाः - पूज्यत्वात् द्विजोत्तमाः, गुरवः - पित्रादयः, प्राज्ञाः - पण्डिताः विदितवेदितव्याः, तेषां पूजनं -  प्रणामशुश्रूषादि । शौचं - मृज्जलाभ्यां शरीरशोधनम् । आर्जवं - ऋजुत्वं, विहितप्रतिषिद्धयोः एकरूपप्रवृत्तिनिवृत्तिमत्वं, ब्रह्मचर्यं - मैथुनासमाचरणं, अहिंसा - प्राणिनाम् अपीडनम् । शरीरमात्रनिर्वर्त्यत्वम् अस्य तपसः सम्भवति इति मत्वा विशिनष्टि -

शरीरेति ।

कथं कर्त्रादि - साध्यत्वे तपसः शारीरत्वम् ? शारीरत्वे वा कथं कर्त्रादिसाध्यत्वम् ? इति आशङ्क्य आह -

पञ्चेति

॥ १४ ॥