सम्प्रति वाङ्मयं तपो व्यपदिशति -
अनुद्वेगकरमिति ।
सत्यं - यथादृष्टार्थवचनं, प्रियं - श्रुतिसुखं, हितं - परिणामपथ्यम् । प्रियहितयोः विधान्तरेण विभागम् आह -
प्रियेति ।
कथम् अत्र विशेषणविशेष्यत्वम् ? तदाह -
अनुद्वेगेति ।
विशेषणानां धर्माणाम् अनुद्वेगकरत्वादीनां विशेष्येण वाक्येन समुदितानां परस्परमपि समुच्चयद्योती चकारः इत्याह -
विशेषणेति ।
किमिति वाक्यम् एतैः विशेष्यते ? किमिति वा तेषां मिथः समुच्चयः ? तत्र आह -
परेति ।
यद्यपि वाक्यमात्रस्य अविशेषितस्य वाङ्मयतपस्त्वानुपपत्तिः, तथापि सत्यवाक्यस्य वाक्यविशेषणान्तराभावेऽपि वाङ्मयत्वम् इति आशङ्क्य आह -
तथेति ।
तथापि परिणामपथ्यं वक्यमात्रं तथा भविष्यति, न इत्याह -
तथा हितेति ।
कीदृक् तर्हि तपः वाङ्मयमिति प्रश्नपूर्वकं विशदयति -
किं पुनरिति ।
विशिष्टे वाङ्मये तपसि दृष्टान्तम् आह -
यथेति ।
प्राङ्मुखत्वं पवित्रपाणित्वम् इत्यादिविधानम् अनतिक्रम्य स्वाध्यायस्य आवर्तनमपि वाङ्मये तपसि अन्तर्भवति इत्याह -
स्वाध्यायेति ।
वाक् प्राचुर्येण प्रस्तुता अस्मिन् इति वाङ्मयं वाकप्रधानम् इत्यर्थः
॥ १५ ॥