श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सत्कारमानपूजार्थं तपो दम्भेन चैव यत्
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ॥ १८ ॥
सत्कारः साधुकारःसाधुः अयं तपस्वी ब्राह्मणःइत्येवमर्थम् , मानो माननं प्रत्युत्थानाभिवादनादिः तदर्थम् , पूजा पादप्रक्षालनार्चनाशयितृत्वादिः तदर्थं तपः सत्कारमानपूजार्थम् , दम्भेन चैव यत् क्रियते तपः तत् इह प्रोक्तं कथितं राजसं चलं कादाचित्कफलत्वेन अध्रुवम् ॥ १८ ॥

राजसं तपः निर्दिशति -

सत्कारेति ।

साधुकारमेव आस्फोरयति । साधुरिति- दम्भेन चैव - नास्तिक्येन, केवलधर्मध्वजित्वेन इत्यर्थः । तत् इह प्रोक्तं - अस्मिन्नेव लोके फलप्रदम् इत्यर्थः । कादाचित्कफलत्वं - क्षणिकफलत्वम् । अध्रुवं - अनियतं, अनैकान्तिकफलम् इति यावत्

॥ १८ ॥