श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥
मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तपः उदाहृतम् ॥ १९ ॥
मूढग्राहेणात्मनो यत्पीडया क्रियते तपः
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ॥ १९ ॥
मूढग्राहेण अविवेकनिश्चयेन आत्मनः पीडया यत् क्रियते तपः परस्य उत्सादनार्थं विनाशार्थं वा, तत् तामसं तपः उदाहृतम् ॥ १९ ॥

तामसं तपः सङ्गृह्णाति -

मूढेति ।

मूढः अत्यन्ताविवेकी, तस्य ग्राहो नाम आग्रहः - अभिनिवेशः, तेन इत्याह -

अविवेकेति ।

आत्मनः - स्वस्य देहादेः इत्यर्थः

॥ १९ ॥